Loading...
ऋग्वेद मण्डल - 8 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 3
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिन॑: । सु॒ताव॑न्तो हवामहे ॥

    स्वर सहित पद पाठ

    ब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिन: । सुतावन्तो हवामहे ॥

    स्वर रहित पद पाठ

    ब्रह्माणः । त्वा । वयम् । युजा । सोमऽपाम् । इन्द्र । सोमिनः । सुतऽवन्तः । हवामहे ॥ ८.१७.३

    ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 3
    अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 3

    पदार्थः -
    हे इन्द्र ! ब्रह्माणः=ब्राह्मणाः=स्तुतिकर्त्तारः । सोमिनः=सोमाः प्रशस्ताः पदार्थाः सन्त्येषामिति सोमिनो यज्ञसामग्रीसंपन्नाः । पुनः । सुतावन्तः=शुभकर्मवन्तो वयम् । त्वा=त्वाम् । युजा=योगेन । हवामहे=आह्वयामहे=प्रार्थयामहे । त्वं प्रार्थितः सन्नागच्छ ॥३ ॥

    इस भाष्य को एडिट करें
    Top