Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 2
    ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा । उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥

    स्वर सहित पद पाठ

    दा॒मान॑म् । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒ऽम॒नः॒ । गि॒रा । उ॒त । स्तु॒षे॒ । विऽस्प॑र्धसः । रथा॑नाम् ॥


    स्वर रहित मन्त्र

    दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा । उत स्तुषे विष्पर्धसो रथानाम् ॥

    स्वर रहित पद पाठ

    दामानम् । विश्वऽचर्षणे । अग्निम् । विश्वऽमनः । गिरा । उत । स्तुषे । विऽस्पर्धसः । रथानाम् ॥ ८.२३.२

    ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 2

    पदार्थः -
    हे विश्वचर्षणे=बह्वर्थद्रष्टः । हे विश्वमनः=विश्वेषु सर्वेषु जीवेषु कल्याणमनो यस्य । ईदृग् ऋषे ! त्वम् । उत=अपि च । विस्पर्धसः=विगतस्पर्धस्य यजमानस्य । रथानां दामानम्=दातारम् । अग्निम् । गिरा । स्तुषे=स्तुहि ॥२ ॥

    इस भाष्य को एडिट करें
    Top