Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 3
    ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ । उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥

    स्वर सहित पद पाठ

    येषा॑म् । आ॒ऽबा॒धः । ऋ॒ग्मियः॑ । इ॒षः । पृ॒क्षः । च॒ । नि॒ऽग्रभे॑ । उ॒प॒ऽविदा॑ । वह्निः॑ । वि॒न्द॒ते॒ । वसु॑ ॥


    स्वर रहित मन्त्र

    येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे । उपविदा वह्निर्विन्दते वसु ॥

    स्वर रहित पद पाठ

    येषाम् । आऽबाधः । ऋग्मियः । इषः । पृक्षः । च । निऽग्रभे । उपऽविदा । वह्निः । विन्दते । वसु ॥ ८.२३.३

    ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 3
    अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 3

    पदार्थः -
    येषामुपद्रवकारिणाम् । ऋग्मियः=अर्चनीय ईश्वरः । आबाधः=आसमन्तात् बाधको भवति तेषाम् । इषोऽन्नानि । पृक्षश्च=अन्नादिरसांश्च । निग्रभे=निगृह्णाति । ततः=अन्यच्च । वह्निः=स्तुतीनां वोढा=स्तुतिपाठकः । उपविदाः=उपज्ञानेन ईशेन द्वारा । वसु=वसूनि । विन्दते=प्राप्नोति ॥३ ॥

    इस भाष्य को एडिट करें
    Top