ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 4
उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् । तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रिय॑: ॥
स्वर सहित पद पाठउत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः॑ । वि । अ॒जर॑म् । तपुः॑ऽजम्भस्य । सु॒ऽद्युतः॑ । ग॒ण॒ऽश्रियः॑ ॥
स्वर रहित मन्त्र
उदस्य शोचिरस्थाद्दीदियुषो व्य१जरम् । तपुर्जम्भस्य सुद्युतो गणश्रिय: ॥
स्वर रहित पद पाठउत् । अस्य । शोचिः । अस्थात् । दीदियुषः । वि । अजरम् । तपुःऽजम्भस्य । सुऽद्युतः । गणऽश्रियः ॥ ८.२३.४
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 4
विषयः - तस्य महिमानं दर्शयति ।
पदार्थः -
दीदियुषः=जगद्दीपकस्य । तपुर्जम्भस्य=तापयितृदन्तस्य । सुद्युतः=शोभनदीप्तेः । गणश्रियः=गणानां शोभाप्रदस्य । अस्येशस्य । अजरम्=नित्यम् । शोचिः=तेजः । उद्+अस्थात्=सर्वत्रोदितमस्ति ॥४ ॥