Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 5
    ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा । अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॑: ॥

    स्वर सहित पद पाठ

    उत् । ऊँ॒ इति॑ । ति॒ष्ठ॒ । सु॒ऽअ॒ध्व॒र॒ । स्तवा॑नः । दे॒व्या । कृ॒पा । अ॒भि॒ऽख्या । भा॒सा । बृ॒ह॒ता । शु॒शु॒क्वनिः॑ ॥


    स्वर रहित मन्त्र

    उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा । अभिख्या भासा बृहता शुशुक्वनि: ॥

    स्वर रहित पद पाठ

    उत् । ऊँ इति । तिष्ठ । सुऽअध्वर । स्तवानः । देव्या । कृपा । अभिऽख्या । भासा । बृहता । शुशुक्वनिः ॥ ८.२३.५

    ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 5
    अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 5

    पदार्थः -
    हे स्वध्वर=शोभनयज्ञेश त्वम् ! देव्या=पूज्यया । कृपा=कृपया=युक्तः । अतः । स्तवानः=स्तूयमानः । अभिख्या=अभिख्यया=प्रसिद्धया । भासा=दीप्त्या सहितः । बृहता=तेजसा । शुशुक्वनिः=दीपनशीलस्त्वम् । उत्तिष्ठ+उ= उपासकानां हृदि उपस्थितो भव ॥५ ॥

    इस भाष्य को एडिट करें
    Top