Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 2
    ऋषिः - विश्वमना वैयश्वः देवता - इन्द्र: छन्दः - उष्णिक् स्वरः - ऋषभः

    शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा । म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥

    स्वर सहित पद पाठ

    शव॑सा । हि । असि॑ । श्रु॒तः । वृ॒त्र॒ऽहत्ये॑न । वृ॒त्र॒ऽहा । म॒घैः । म॒घोनः॑ । अति॑ । शू॒र॒ । दा॒श॒सि॒ ॥


    स्वर रहित मन्त्र

    शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा । मघैर्मघोनो अति शूर दाशसि ॥

    स्वर रहित पद पाठ

    शवसा । हि । असि । श्रुतः । वृत्रऽहत्येन । वृत्रऽहा । मघैः । मघोनः । अति । शूर । दाशसि ॥ ८.२४.२

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 2

    पदार्थः -
    हे इन्द्र ! त्वम् । शवसा=महत्या शक्त्या हि । श्रुतोऽसि=प्रसिद्धोऽसि त्वम् । वृत्रहत्येन=वृत्राणां विघ्नानां विनाशेन हेतुना । वृत्रहेति प्रसिद्धोऽसि । हे शूर ! मघोनः=धनवतः पुरुषान् । मघैर्धनैरतिक्रम्य । त्वं स्तोतृभ्यः । दाशसि=प्रयच्छसि ॥२ ॥

    इस भाष्य को एडिट करें
    Top