Loading...
ऋग्वेद मण्डल - 8 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 3
    ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः देवता - अश्विनौ छन्दः - उष्णिक् स्वरः - ऋषभः

    ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू । पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥

    स्वर सहित पद पाठ

    ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥


    स्वर रहित मन्त्र

    ता वामद्य हवामहे हव्येभिर्वाजिनीवसू । पूर्वीरिष इषयन्तावति क्षपः ॥

    स्वर रहित पद पाठ

    ता । वाम् । अद्य । हवामहे । हव्येभिः । वाजिनीवसू इति वाजिनीऽवसू । पूर्वीः । इषः । इषयन्तौ । अति । क्षपः ॥ ८.२६.३

    ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 3
    अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 3

    पदार्थः -
    हे वाजिनीवसू=हे वर्षणशीलधनवन्तौ ! हे विज्ञानधनवन्तौ ! ता+वाम्=तौ युवाम् । अद्य=अस्मिन् दिने । अति+क्षपः=क्षपाया रात्रेः अतिक्रमे । हव्येभिः=हविर्लक्षणैः स्तोत्रैः सह । हवामहे । कीदृशौ । पूर्वीः=बह्वीः । इषः=अन्नानि । इषयन्तौ=इच्छन्तौ ॥३ ॥

    इस भाष्य को एडिट करें
    Top