ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 2
ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः
देवता - अश्विनौ
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या । अवो॑भिर्याथो वृषणा वृषण्वसू ॥
स्वर सहित पद पाठयु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्णे॑ । म॒हे । तने॑ । ना॒स॒त्या॒ । अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥
स्वर रहित मन्त्र
युवं वरो सुषाम्णे महे तने नासत्या । अवोभिर्याथो वृषणा वृषण्वसू ॥
स्वर रहित पद पाठयुवम् । वरो इति । सुऽसाम्णे । महे । तने । नासत्या । अवःऽभिः । याथः । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥ ८.२६.२
ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 2
विषयः - राजकर्त्तव्यतान्तरमाह ।
पदार्थः -
हे नासत्या=हे असत्यरहितौ ! हे वृषणा=हे वृषणौ ! हे वृषण्वसू=हे अश्विनौ ! युवम्=युवाम् । वरो=वरवे=श्रेष्ठाय । सुसाम्ने=शोभनगानकारिणे । महे=महते । तने=तनोतीति तनः=तननाय । अवोभिः=रक्षणैः सह । याथः=गच्छथः ॥२ ॥