Loading...
ऋग्वेद मण्डल - 8 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 1
    ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः देवता - अश्विनौ छन्दः - उष्णिक् स्वरः - ऋषभः

    यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ । अतू॑र्तदक्षा वृषणा वृषण्वसू ॥

    स्वर सहित पद पाठ

    यु॒वोर् ऊँ॒ इति॑ । सु । रथ॑म् । हु॒वे॒ । स॒धऽस्तु॑त्याय । सू॒रिषु॑ । अतू॑र्तऽदक्षा । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥


    स्वर रहित मन्त्र

    युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु । अतूर्तदक्षा वृषणा वृषण्वसू ॥

    स्वर रहित पद पाठ

    युवोर् ऊँ इति । सु । रथम् । हुवे । सधऽस्तुत्याय । सूरिषु । अतूर्तऽदक्षा । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥ ८.२६.१

    ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 1

    पदार्थः -
    हे अतूर्तदक्षा=हे अहिंसितबलौ । हे वृषणा=वृषणौ ! वृषण्वसू=वर्षणशीलधनौ ! हे अश्विनौ ! युवोः=युवयोः । रथम् । सूरिषु=विदुषां मध्ये । सधस्तुत्याय=सह स्तोतुम् । सुशोभनम् । हुवे=आह्वयामि । उ=इति प्रसिद्धम् ॥१ ॥

    इस भाष्य को एडिट करें
    Top