Loading...
ऋग्वेद मण्डल - 8 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 25/ मन्त्र 24
    ऋषिः - विश्वमना वैयश्वः देवता - मित्रावरुणौ छन्दः - उष्णिक् स्वरः - ऋषभः

    स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती । म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥

    स्वर सहित पद पाठ

    स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती । म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥


    स्वर रहित मन्त्र

    स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । महो वाजिनावर्वन्ता सचासनम् ॥

    स्वर रहित पद पाठ

    स्मदभीशू इति स्मत्ऽअभीशू । कशाऽवन्ता । विप्रा । नविष्ठया । मती । महः । वाजिनौ । अर्वन्ता । सचा । असनम् ॥ ८.२५.२४

    ऋग्वेद - मण्डल » 8; सूक्त » 25; मन्त्र » 24
    अष्टक » 6; अध्याय » 2; वर्ग » 25; मन्त्र » 4

    पदार्थः -
    अहमुपासकः । नविष्ठया=नूतनतरया । मती=मत्या युक्तौ । द्वौ । अर्वन्ता=अर्वन्तौ=द्विविधाविन्द्रियाश्वौ । सचा=सार्धमेव । असनम्=प्राप्तवानस्मि । कीदृशौ । स्मदभीशू=शोभनरज्जुयुक्तौ । कशावन्ता=बुद्धिकशावन्तौ । विप्रा=विप्रौ । महः=महान्तौ । वाजिनौ=शीघ्रगामिनौ ॥२४ ॥

    इस भाष्य को एडिट करें
    Top