Loading...
ऋग्वेद मण्डल - 8 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 25/ मन्त्र 23
    ऋषिः - विश्वमना वैयश्वः देवता - मित्रावरुणौ छन्दः - आर्च्युष्णिक् स्वरः - ऋषभः

    ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना । उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥

    स्वर सहित पद पाठ

    ता । मे॒ । अश्व्या॑नाम् । हरी॑णाम् । नि॒ऽतोश॑ना । उ॒तो इति॑ । नु । कृत्व्या॑नाम् । नृ॒ऽवाह॑सा ॥


    स्वर रहित मन्त्र

    ता मे अश्व्यानां हरीणां नितोशना । उतो नु कृत्व्यानां नृवाहसा ॥

    स्वर रहित पद पाठ

    ता । मे । अश्व्यानाम् । हरीणाम् । निऽतोशना । उतो इति । नु । कृत्व्यानाम् । नृऽवाहसा ॥ ८.२५.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 25; मन्त्र » 23
    अष्टक » 6; अध्याय » 2; वर्ग » 25; मन्त्र » 3

    पदार्थः -
    हरीणाम्=हर्तॄणाम् । अश्व्यानाम्=अश्वसमूहानां मध्ये । नितोशना=नितोशनौ=शत्रुविनाशकौ । ता=तौ । मम ज्ञानकर्मेन्द्रियाश्वौ । भवेताम् । उतो+नु=उतापि च । कृत्व्यानाम्=कर्मणि कुशलानाम् । मध्ये । नृवाहसा=नृवाहसौ=मनुष्याणां वोढारौ । भवेताम् ॥२३ ॥

    इस भाष्य को एडिट करें
    Top