ऋग्वेद - मण्डल 8/ सूक्त 25/ मन्त्र 22
ऋषिः - विश्वमना वैयश्वः
देवता - मित्रावरुणौ
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे । रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥
स्वर सहित पद पाठऋ॒ज्रम् । उ॒क्ष॒ण्याय॑ने । र॒ज॒तम् । हर॑याणे । रथ॑म् । यु॒क्तम् । अ॒स॒ना॒म॒ । सु॒ऽसाम॑नि ॥
स्वर रहित मन्त्र
ऋज्रमुक्षण्यायने रजतं हरयाणे । रथं युक्तमसनाम सुषामणि ॥
स्वर रहित पद पाठऋज्रम् । उक्षण्यायने । रजतम् । हरयाणे । रथम् । युक्तम् । असनाम । सुऽसामनि ॥ ८.२५.२२
ऋग्वेद - मण्डल » 8; सूक्त » 25; मन्त्र » 22
अष्टक » 6; अध्याय » 2; वर्ग » 25; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 25; मन्त्र » 2
विषयः - अथोपासनाफलं दर्शयति ।
पदार्थः -
उक्षण्यायने=कामानां सेक्तरीश्वरे । ऋज्रम्=ऋजुगामिनमश्वम् । हरयाने=सर्वदुःखहरणकर्त्तरि ईशे । रजतम् । सुसामनि=शोभनगानगीयमाने देवे । युक्तं रथञ्च । असनाम=प्राप्नुमः ॥२२ ॥