ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 2
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्र:
छन्दः - सतःपङ्क्ति
स्वरः - पञ्चमः
भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑: स्तर॒भिमा॑तये । अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑: सु॒म्नेषु॑ यामय ॥
स्वर सहित पद पाठभू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये । अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥
स्वर रहित मन्त्र
भूयाम ते सुमतौ वाजिनो वयं मा न: स्तरभिमातये । अस्माञ्चित्राभिरवतादभिष्टिभिरा न: सुम्नेषु यामय ॥
स्वर रहित पद पाठभूयाम । ते । सुऽमतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिऽमातये । अस्मान् । चित्राभिः । अवतात् । अभिष्टिऽभिः । आ । नः । सुम्नेषु । यमय ॥ ८.३.२
ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 25; मन्त्र » 2
अष्टक » 5; अध्याय » 7; वर्ग » 25; मन्त्र » 2
विषयः - अनयाऽऽशिषं प्रार्थयते ।
पदार्थः -
हे भगवन् ! वाजिनः=सर्वज्ञानमयस्य । ते=तव । सुमतौ=कल्याण्यां मतौ तवाज्ञायामित्यर्थः । वयं भूयाम=तिष्ठाम । तवाज्ञां न कदाप्युल्लङ्घयाम । यद्वा । तव सुमतौ स्थिता वयं वाजिनः=विज्ञानवन्तो भूयाम । हे इन्द्र ! अभिमातये=अभिमातिरज्ञानं तस्मै । नोऽस्मान् । मा स्तः=मा हिंसीः । वयमज्ञा इति हेतोरस्मान् मा वधीः । स्तृङ् हिंसायां माङि लुङि छान्दसश्च्लेर्लुक् । पुनः । अस्मान्=तवाधीनान् । अभिष्टिभिः=अभ्येषणीयाभिः= प्रार्थनीयाभिः । चित्राभिः=नानाविधाभी रक्षाभिरिति शेषः । अवतात्=अव=रक्ष । नोऽस्मान् । सुम्नेषु=निःश्रेयसेषु अभ्युदयेषु च । आयामय=समन्तात् स्थापय ॥२ ॥