Loading...
ऋग्वेद मण्डल - 8 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 10
    ऋषिः - श्यावाश्वः देवता - इन्द्राग्नी छन्दः - निचृद्गायत्री स्वरः - षड्जः

    आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे । याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥

    स्वर सहित पद पाठ

    आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ । याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥


    स्वर रहित मन्त्र

    आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे । याभ्यां गायत्रमृच्यते ॥

    स्वर रहित पद पाठ

    आ । अहम् । सरस्वतीऽवतोः । इन्द्राग्न्योः । अवः । वृणे । याभ्याम् । गायत्रम् । ऋच्यते ॥ ८.३८.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 10
    अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 4

    पदार्थः -
    याभ्यामिन्द्राग्नीभ्याम् । गायत्रं साम । ऋच्यते=स्तूयते । तयोः । सरस्वतीवतोः=विद्यावतोः इन्द्राग्न्योः अवः=रक्षणम् । अहमावृणै=याचे ॥१० ॥

    इस भाष्य को एडिट करें
    Top