Loading...
ऋग्वेद मण्डल - 8 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 9
    ऋषिः - श्यावाश्वः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः

    ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

    स्वर सहित पद पाठ

    ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥


    स्वर रहित मन्त्र

    एवा वामह्व ऊतये यथाहुवन्त मेधिराः । इन्द्राग्नी सोमपीतये ॥

    स्वर रहित पद पाठ

    एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । इन्द्राग्नी इति । सोमऽपीतये ॥ ८.३८.९

    ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 9
    अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 3

    पदार्थः -
    हे इन्द्राग्नी ! यथा । मेधिराः=मेधाविनः । वाम् । अहुवन्त=आह्वयन्ति । एवमहमपि । ऊतये=साहाय्याय । सोमपीतये च । अह्वे=आह्वयामि ॥९ ॥

    इस भाष्य को एडिट करें
    Top