ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 20
ऋषिः - देवातिथिः काण्वः
देवता - कुरुङ्स्य दानस्तुतिः
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिन॑: प्रि॒यमे॑धैर॒भिद्यु॑भिः । ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषि॑: ॥
स्वर सहित पद पाठधी॒भिः । सा॒तानि॑ । का॒ण्वस्य॑ । वा॒जिनः॑ । प्रि॒यऽमे॑धैः । अ॒भिद्यु॑ऽभिः । ष॒ष्टिम् । स॒हस्रा॑ । अनु॑ । निःऽम॑जाम् । अ॒जे॒ । निः । यू॒थानि॑ । गवा॑म् । ऋषिः॑ ॥
स्वर रहित मन्त्र
धीभिः सातानि काण्वस्य वाजिन: प्रियमेधैरभिद्युभिः । षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषि: ॥
स्वर रहित पद पाठधीभिः । सातानि । काण्वस्य । वाजिनः । प्रियऽमेधैः । अभिद्युऽभिः । षष्टिम् । सहस्रा । अनु । निःऽमजाम् । अजे । निः । यूथानि । गवाम् । ऋषिः ॥ ८.४.२०
ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 20
अष्टक » 5; अध्याय » 7; वर्ग » 33; मन्त्र » 5
अष्टक » 5; अध्याय » 7; वर्ग » 33; मन्त्र » 5
विषयः - अस्मिन् देहे परमात्मना किं दत्तमस्तीति प्रदर्श्यते ।
पदार्थः -
अहमृषिरुपासकः । गवाम्=इन्द्रियाणाम् । यूथानि=बहून् समूहान् । अनु=पश्चात् । नि+अजे=नितरां प्राप्तवानस्मि । अज गतिक्षेपणयोः । कतीत्यपेक्षायाम् । षष्ठिम्=षष्ठिसंख्याकानि । सहस्रा=सहस्राणि । कीदृशां गवाम् । निर्मजाम्=निःशेषेण शुद्धानाम् । कीदृशानि यूथानि । वाजिनः=ज्ञानवतः । काण्वस्य=गमनशीलस्य आत्मनः सम्बन्धिभिः । अभिद्युभिः=अभितः परितः शरीरे विकाशमानैः । प्रियमेधैः=प्राणैः कर्तृभिः । धीभिः=कर्मभिर्हेतुभिः । सातानि=शरीरे संविभक्तानि ॥२० ॥