ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 21
ऋषिः - देवातिथिः काण्वः
देवता - कुरुङ्स्य दानस्तुतिः
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः । गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥
स्वर सहित पद पाठवृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ । गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥
स्वर रहित मन्त्र
वृक्षाश्चिन्मे अभिपित्वे अरारणुः । गां भजन्त मेहनाश्वं भजन्त मेहना ॥
स्वर रहित पद पाठवृक्षाः । चित् । मे । अभिऽपित्वे । अररणुः । गाम् । भजन्त । मेहना । अश्वम् । भजन्त । मेहना ॥ ८.४.२१
ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 21
अष्टक » 5; अध्याय » 7; वर्ग » 33; मन्त्र » 6
अष्टक » 5; अध्याय » 7; वर्ग » 33; मन्त्र » 6
विषयः - मानवशरीरमहिमा प्रदर्श्यते ।
पदार्थः -
मानवशक्तिं दृष्ट्वेतरे सर्वे पदार्थाः स्पर्धन्त इत्यनया शिक्षते । यथा−मे=मम मनुष्यस्येन्द्रियादीनाम् । अभिपित्वे=प्राप्तौ । इमे । वृक्षाः+चित्=वृक्षा अपि । वक्ष्यमाणप्रकारेण । अरारणुः=अशब्दयन्=शब्दायन्ते । कथमिति तदाह−इमे मनुष्याः । मेहना=मेहनीयां प्रशस्याम् । गाम्=इन्द्रियम् । भजन्त=असेवन्त=प्राप्तवन्तः । तथा । मेहना=प्रशस्यम् । अश्वं मनोरूपम् । भजन्त । यद्वा । मेहनेति− मे+इह+नेति−पदत्रयात्मकं पदम् । मे=मम । इह देहे । यद्धनमिन्द्रियादिस्वरूपम् । नास्ति । तद् गवादिकं धनम् । इमे मनुष्या लभन्त इति वृक्षादयः सर्वे कथयन्तीति मन्ये । आलङ्कारिकमिदं वर्णनम् ॥२१ ॥