Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 1
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिर॒: स्तोमा॑स ईरते ॥

    स्वर सहित पद पाठ

    इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥


    स्वर रहित मन्त्र

    इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । गिर: स्तोमास ईरते ॥

    स्वर रहित पद पाठ

    इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतऽयज्वनः । गिरः । स्तोमासः । ईरते ॥ ८.४३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 29; मन्त्र » 1

    पदार्थः -
    विप्रस्य=मेधाविनः । विशेषेण ज्ञानप्रचारकस्य वा । वेधसः=स्तुतीनां विधातुः । ममोपासकस्य इमे । स्तोमासः=स्तोमाः स्तुतयः । अस्तृतयज्वनः=अहिंसितयजमानस्य । गिरः=स्तवनीयस्य । अग्नेः=परमात्मनः । ईरते=ईरताम् गच्छन्तु ॥१ ॥

    इस भाष्य को एडिट करें
    Top