Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 5/ मन्त्र 2
    ऋषिः - ब्रह्मातिथिः काण्वः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा । सचे॑थे अश्विनो॒षस॑म् ॥

    स्वर सहित पद पाठ

    नृ॒ऽवत् । द॒स्रा॒ । म॒नः॒ऽयुजा॑ । रथे॑न । पृ॒थु॒ऽपाज॑सा । सचे॑थे॒ इति॑ । अ॒श्वि॒ना॒ । उ॒षस॑म् ॥


    स्वर रहित मन्त्र

    नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा । सचेथे अश्विनोषसम् ॥

    स्वर रहित पद पाठ

    नृऽवत् । दस्रा । मनःऽयुजा । रथेन । पृथुऽपाजसा । सचेथे इति । अश्विना । उषसम् ॥ ८.५.२

    ऋग्वेद - मण्डल » 8; सूक्त » 5; मन्त्र » 2
    अष्टक » 5; अध्याय » 8; वर्ग » 1; मन्त्र » 2

    पदार्थः -
    हे दस्रा=दस्रौ दर्शनीयौ शत्रूणामुपक्षयितारौ वा । हे अश्विना=अश्विनौ मनुष्यसमूहविधातारौ राजामात्यौ ! युवां प्रथमम् । नृवत्=यथा नरौ=नेतारौ आचरतस्तथा । रथेन । बहिर्गत्वा । उषसम्=प्रभातं तत्कालिकं वायुम् । सचेथे−सचेथां=सेवेथाम् । कीदृशेन रथेन । मनोयुजा=मनो यत्र युज्यते मनोहरेणेत्यर्थः । पुनः । पृथुपाजसा=विस्तीर्णबलेन=दृढेनेत्यर्थः ॥२ ॥

    इस भाष्य को एडिट करें
    Top