ऋग्वेद - मण्डल 8/ सूक्त 5/ मन्त्र 39
ऋषिः - ब्रह्मातिथिः काण्वः
देवता - वैद्यस्य कशोर्दानस्तुतिः
छन्दः - निचृदार्ष्यनुष्टुप्
स्वरः - गान्धारः
माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दय॑: । अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जन॑: ॥
स्वर सहित पद पाठमाकिः॑ । ए॒ना । प॒था । गा॒द्येन॑ । इ॒मे । यन्ति॑ । चे॒दयः॑ । अ॒न्यः । न । इत् । सू॒रिः । ओह॑ते । भू॒र्द॒ाव॑त्ऽतरः॑ । जनः॑ ॥
स्वर रहित मन्त्र
माकिरेना पथा गाद्येनेमे यन्ति चेदय: । अन्यो नेत्सूरिरोहते भूरिदावत्तरो जन: ॥
स्वर रहित पद पाठमाकिः । एना । पथा । गाद्येन । इमे । यन्ति । चेदयः । अन्यः । न । इत् । सूरिः । ओहते । भूर्दावत्ऽतरः । जनः ॥ ८.५.३९
ऋग्वेद - मण्डल » 8; सूक्त » 5; मन्त्र » 39
अष्टक » 5; अध्याय » 8; वर्ग » 8; मन्त्र » 4
अष्टक » 5; अध्याय » 8; वर्ग » 8; मन्त्र » 4
विषयः - पुनरपि विवेकः प्रशस्यते ।
पदार्थः -
येन मार्गेण । इमे । चेदयः=चेदिमन्तः=विवेकसम्पन्ना जना इत्यर्थः । “यद्यपि चेदय इन्द्रियाणि । तथापि तादृशैरिन्द्रियैर्युक्ताः पुरुषा अपि चेदय इतीहोच्यते । यद्वा । मत्वर्थीयस्य लोपो दृष्टव्यः” । यन्ति=गच्छन्ति । एना=अनेन । पथा=मार्गेण । माकिर्गात्=अन्यो न गन्तुं शक्नोति । विवेकराहित्यात् । अपि च । एभ्यो विवेकिभ्यः । अन्यः=सूरिर्विद्वानपि जनः । भूरिदावत्तरः=बहुदातृतमः । नेत्=नैव । ओहते=वहति=स्तोतृभ्यो धनं प्रापयति ॥३९ ॥