ऋग्वेद - मण्डल 8/ सूक्त 5/ मन्त्र 38
ऋषिः - ब्रह्मातिथिः काण्वः
देवता - वैद्यस्य कशोर्दानस्तुतिः
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत । अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जना॑: ॥
स्वर सहित पद पाठयः । मे॒ । हिर॑ण्यऽसन्दृशः । दश॑ । राज्ञः॒ । अमं॑हत । अ॒धः॒ऽप॒दाः । इत् । चै॒द्यस्य॑ । कृ॒ष्टयः॑ । च॒र्म॒ऽम्नाः । अ॒भितः॑ । जनाः॑ ॥
स्वर रहित मन्त्र
यो मे हिरण्यसंदृशो दश राज्ञो अमंहत । अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जना: ॥
स्वर रहित पद पाठयः । मे । हिरण्यऽसन्दृशः । दश । राज्ञः । अमंहत । अधःऽपदाः । इत् । चैद्यस्य । कृष्टयः । चर्मऽम्नाः । अभितः । जनाः ॥ ८.५.३८
ऋग्वेद - मण्डल » 8; सूक्त » 5; मन्त्र » 38
अष्टक » 5; अध्याय » 8; वर्ग » 8; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 8; मन्त्र » 3
विषयः - विवेकवर्णनमाह ।
पदार्थः -
यः कशुर्विवेकः । मे=मह्यम् । हिरण्यसंदृशः=विषयान् हरन्ति ये ते हिरण्याः । यद्वा । ह्रियन्ते विषया यैस्ते हिरण्या हर्तारः । संदृश्यन्ते ज्ञायन्ते विषया यैस्ते संदृशः=सम्यग्द्रष्टारः । हिरण्याश्च ते संदृशश्चेति हिरण्यसंदृशः । दश । राज्ञः=राजन्ते शोभन्त इति राजानस्तान् इन्द्रियलक्षणान् । अमंहत=ददाति । ननु प्रागपि विवेकोत्पत्तेर्दशेन्द्रियाणि विद्यन्त एव । सत्यम् । जाते विवेक इन्द्रियाणामिन्द्रियत्वं प्रतिभातीति तथोक्तम् । यद्वा । विवेकः खलु दश दशराज्ञोऽधीनात् कृत्वा मह्यं ददाति । दशराजान इदानीं ममाधीना जाता इति विवेकस्यैव प्रतापः । ननु कथं विवेक एवं करोतीति ब्रूते−चैद्यस्य=चेदिभ्यः शिक्षितेभ्य इन्द्रियेभ्यो जातश्चैद्यो विवेकस्तस्य । इद्=एव । कृष्टयः=प्रजाः । अधस्पदाः=पादयोरधस्ताद् वर्तन्ते । पुनः । तस्य सर्वे जनाः । चर्मम्नाः=चर्ममयस्य कवचादेर्धारणे कृताभ्यासाः । अभितः=सर्वतः पराभवन्ति ॥३८ ॥