ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 18
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्र:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घ॒: सम्मि॑श्लो वि॒र्या॑य॒ कम् । उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतु॑: ॥
स्वर सहित पद पाठप्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् । उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥
स्वर रहित मन्त्र
प्रभङ्गी शूरो मघवा तुवीमघ: सम्मिश्लो विर्याय कम् । उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतु: ॥
स्वर रहित पद पाठप्रऽभङ्गी । शूरः । मघऽवा । तुविऽमघः । सम्ऽमिश्लः । वीर्याय । कम् । उभा । ते । बाहू इति । वृषणा । शतक्रतो इति शतऽक्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥ ८.६१.१८
ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 18
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 3
विषयः - अनया ऋचा तस्य न्यायं दर्शयति ।
पदार्थः -
हे मनुष्याः । अयं परमात्मा । प्रभङ्गी=दुष्टानां प्रकर्षेण भञ्जयिता । शूरः । मघवा=धनवान् । तुवीमघः=बहुधनः । संमिश्लः=संमिश्रः=सुखदुःखैः यथाकर्म मिश्रयिता । पुनः । वीर्य्याय समर्थः । कमिति पूरणः । तमेव पूजयध्वम् । हे शतक्रतो=अनन्तकर्मन् ! ते=तव । उभा=उभौ । बाहू । वृषणा=वृषणौ वर्षितारौ कामानाम् । या=यौ च । न्यायार्थम् । वज्रं नि मिमिक्षतुः=निगृह्णीतः । ईदृशं त्वामेव वयमुपास्महे ॥१८ ॥