Loading...
ऋग्वेद मण्डल - 8 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 17
    ऋषिः - भर्गः प्रागाथः देवता - इन्द्र: छन्दः - पाद्निचृद्बृहती स्वरः - मध्यमः

    अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः । विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥

    स्वर सहित पद पाठ

    अ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑स् । त्रास्व॑ । प॒रे । च॒ । नः॒ । विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥


    स्वर रहित मन्त्र

    अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥

    स्वर रहित पद पाठ

    अद्यऽअद्य । श्वःऽश्वः । इन्द्रस् । त्रास्व । परे । च । नः । विश्वा । च । नः । जरितॄन् । सत्ऽपते । अहा । दिवा । नक्तम् । च । रक्षिषः ॥ ८.६१.१७

    ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 17
    अष्टक » 6; अध्याय » 4; वर्ग » 39; मन्त्र » 2

    पदार्थः -
    हे इन्द्र ! अद्य अद्य=अस्मिन् अस्मिन् । श्वः श्वः । परे च=परस्मिन्नपि दिने । नः त्रास्व । नोऽस्मान् । जरितॄन्=स्तोस्तॄन् । विश्वा=विश्वानि । अहा=अहानि च । दिवा च नक्तञ्च । हे सत्पते रक्षिषः=रक्ष ॥१७ ॥

    इस भाष्य को एडिट करें
    Top