Loading...
ऋग्वेद मण्डल - 8 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 66/ मन्त्र 15
    ऋषिः - कलिः प्रगाथः देवता - इन्द्र: छन्दः - अनुष्टुप् स्वरः - गान्धारः

    सोम॒ इद्व॑: सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन । अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥

    स्वर सहित पद पाठ

    सोमः॑ । इत् । वः॒ । सु॒तः । अ॒स्तु॒ । कल॑यः । मा । बि॒भी॒त॒न॒ । अप॑ । इत् । ए॒षः ध्व॒स्मा । अ॒य॒ति॒ । स्व॒यम् । घ॒ । ए॒षः । अप॑ । अ॒य॒ति॒ ॥


    स्वर रहित मन्त्र

    सोम इद्व: सुतो अस्तु कलयो मा बिभीतन । अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥

    स्वर रहित पद पाठ

    सोमः । इत् । वः । सुतः । अस्तु । कलयः । मा । बिभीतन । अप । इत् । एषः ध्वस्मा । अयति । स्वयम् । घ । एषः । अप । अयति ॥ ८.६६.१५

    ऋग्वेद - मण्डल » 8; सूक्त » 66; मन्त्र » 15
    अष्टक » 6; अध्याय » 4; वर्ग » 50; मन्त्र » 5

    पदार्थः -
    हे कलयः=हे कलाविदः ! यद्वा हे कर्तारः कर्मणाम् ! वः=युष्माकं गृहे । सोमः=प्रियो मधुरश्च पदार्थः । सुतः+इत्=सम्पादितोऽस्तु । मा बिभीतन=भीता मा भवत । यतः एषः+ध्वस्मा=ध्वंसकः । शोकादि अपायति+इत्=अपगच्छत्येव । एषः । स्वयं+घ=स्वयमेव । अपायति ॥१५ ॥

    इस भाष्य को एडिट करें
    Top