Loading...
ऋग्वेद मण्डल - 8 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 68/ मन्त्र 18
    ऋषिः - प्रियमेधः देवता - ऋक्षाश्वमेधयोर्दानस्तुतिः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तॠ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥

    स्वर सहित पद पाठ

    आ । एषु॑ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी । सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥


    स्वर रहित मन्त्र

    ऐषु चेतद्वृषण्वत्यन्तॠज्रेष्वरुषी । स्वभीशुः कशावती ॥

    स्वर रहित पद पाठ

    आ । एषु । चेतत् । वृषण्ऽवती । अन्तः । ऋज्रेषु । अरुषी । सुऽअभीशुः । कशाऽवती ॥ ८.६८.१८

    ऋग्वेद - मण्डल » 8; सूक्त » 68; मन्त्र » 18
    अष्टक » 6; अध्याय » 5; वर्ग » 4; मन्त्र » 3

    पदार्थः -
    एषु+ऋज्रेषु=ऋजुगामिषु । इन्द्रियाश्वेषु अन्तर्मध्ये । एका । कशावती=विवेकवती बुद्धिर्नारी । आचेतत्=आचेतयति ज्ञानशक्त्या शास्तीत्यर्थः । कीदृशी वृषण्वती=वर्षाकारिणी । पुनः । अरुषी=आरोचमाना=शोभमाना । पुनः । स्वभीशुः= सुप्रग्रहा ॥१८ ॥

    इस भाष्य को एडिट करें
    Top