Loading...
ऋग्वेद मण्डल - 8 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 68/ मन्त्र 19
    ऋषिः - प्रियमेधः देवता - ऋक्षाश्वमेधयोर्दानस्तुतिः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्य॑: । अ॒व॒द्यमधि॑ दीधरत् ॥

    स्वर सहित पद पाठ

    न । यु॒ष्मे इति॑ । वा॒ज॒ऽब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः॑ । अ॒व॒द्यम् । अधि॑ । दी॒ध॒र॒त् ॥


    स्वर रहित मन्त्र

    न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्य: । अवद्यमधि दीधरत् ॥

    स्वर रहित पद पाठ

    न । युष्मे इति । वाजऽबन्धवः । निनित्सुः । चन । मर्त्यः । अवद्यम् । अधि । दीधरत् ॥ ८.६८.१९

    ऋग्वेद - मण्डल » 8; सूक्त » 68; मन्त्र » 19
    अष्टक » 6; अध्याय » 5; वर्ग » 4; मन्त्र » 4

    पदार्थः -
    हे वाजबन्धवः=वाजेन विज्ञानान्नेन सुबद्धा बन्धुभूता इन्द्रियपुरुषाः । युष्मे=युष्मासु । निनित्सुः । चन=निन्दाभ्यासी अपि मर्त्यः । अवद्यं=निन्दां दोषञ्च । नाधि दीधरत्=अधिस्थापयति ॥१९ ॥

    इस भाष्य को एडिट करें
    Top