ऋग्वेद - मण्डल 1/ सूक्त 179/ मन्त्र 3
ऋषिः - लोपमुद्राऽगस्त्यौ
देवता - दम्पती
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव। जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
स्वर सहित पद पाठन । मृषा॑ । श्रा॒न्तम् । यत् । अव॑न्ति । दे॒वाः । विश्वाः॑ । इत् । स्पृधः॑ । अ॒भि । अ॒श्न॒वा॒व॒ । जया॑व । इत् । अत्र॑ । श॒तऽनी॑थम् । आ॒जिम् । यत् । स॒म्यञ्चा॑ । मि॒थु॒नौ । अ॒भि । अजा॑व ॥
स्वर रहित मन्त्र
न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव। जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥
स्वर रहित पद पाठन। मृषा। श्रान्तम्। यत्। अवन्ति। देवाः। विश्वाः। इत्। स्पृधः। अभि। अश्नवाव। जयाव। इत्। अत्र। शतऽनीथम्। आजिम्। यत्। सम्यञ्चा। मिथुनौ। अभि। अजाव ॥ १.१७९.३
ऋग्वेद - मण्डल » 1; सूक्त » 179; मन्त्र » 3
अष्टक » 2; अध्याय » 4; वर्ग » 22; मन्त्र » 3
अष्टक » 2; अध्याय » 4; वर्ग » 22; मन्त्र » 3
Meaning -
The vexations of the household are not vain since nature and the divines protect and bless it. Let us together face the problems and win the battles of the world. We shall win the hundredfold battles if we, the wedded couple, were to beget progeny and fulfil our duties of the household.