Loading...
ऋग्वेद मण्डल - 10 के सूक्त 107 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 107/ मन्त्र 1
    ऋषिः - दिव्यो दक्षिणा वा प्राजापत्या देवता - दक्षिणा तद्दातारों वा छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि । महि॒ ज्योति॑: पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पन्था॒ दक्षि॑णाया अदर्शि ॥

    स्वर सहित पद पाठ

    आ॒विः । अ॒भू॒त् । महि॑ । माघो॑नम् । ए॒षा॒म् । विश्व॑म् । जी॒वम् । तम॑सः । निः । अ॒मो॒चि॒ । महि॑ । ज्योतिः॑ । पि॒तृऽभिः॑ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः॑ । दक्षि॑णायाः । अ॒द॒र्शि॒ ॥


    स्वर रहित मन्त्र

    आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि । महि ज्योति: पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥

    स्वर रहित पद पाठ

    आविः । अभूत् । महि । माघोनम् । एषाम् । विश्वम् । जीवम् । तमसः । निः । अमोचि । महि । ज्योतिः । पितृऽभिः । दत्तम् । आ । अगात् । उरुः । पन्थाः । दक्षिणायाः । अदर्शि ॥ १०.१०७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 107; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 3; मन्त्र » 1

    Meaning -
    Revealed and manifest is the great light and glory of these sun-rays, the entire life of the world is revealed and released from darkness. Mighty light given by parental radiations of the sun is come, yajna is accomplished, and the broad flow of generosity is seen on high.

    इस भाष्य को एडिट करें
    Top