ऋग्वेद - मण्डल 10/ सूक्त 110/ मन्त्र 11
ऋषिः - जम्दग्नी रामो वा
देवता - आप्रियः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतु॑: प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥
स्वर सहित पद पाठस॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः । अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥
स्वर रहित मन्त्र
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । अस्य होतु: प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥
स्वर रहित पद पाठसद्यः । जातः । वि । अमिमीत । यज्ञम् । अग्निः । देवानाम् । अभवत् । पुरःऽगाः । अस्य । होतुः । प्रऽदिशि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हविः । अदन्तु । देवाः ॥ १०.११०.११
ऋग्वेद - मण्डल » 10; सूक्त » 110; मन्त्र » 11
अष्टक » 8; अध्याय » 6; वर्ग » 9; मन्त्र » 6
अष्टक » 8; अध्याय » 6; वर्ग » 9; मन्त्र » 6
Meaning -
Agni which is the first and pioneer of the divinities enacts and lights up the yajna as soon as it arises and accomplishes it to the end, so may the divinities, under the action and direction of this yajaka, share and consume the fragrant havis offered with Svaha into the flames of yajnic fire with complete faith and dedication.