ऋग्वेद - मण्डल 10/ सूक्त 122/ मन्त्र 1
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् । स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥
स्वर सहित पद पाठवसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् । सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥
स्वर रहित मन्त्र
वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् । स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥
स्वर रहित पद पाठवसुम् । न । चित्रऽमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् । सः । रासते । शुरुधः । विश्वऽधायसः । अग्निः । होता । गृहऽपतिः । सुऽवीर्यम् ॥ १०.१२२.१
ऋग्वेद - मण्डल » 10; सूक्त » 122; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 1
Meaning -
I adore Agni like my life’s parental home, wondrous generous and refulgent, lovely, comfortable, welcome as a noble guest, all love free from jealousy. Master protector of the home, yajamana as well as high priest of life’s yajna, he blesses us with all protective, universally nourishing and positive heroic powers and creative energies of life.