Loading...
ऋग्वेद मण्डल - 10 के सूक्त 122 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 122/ मन्त्र 4
    ऋषिः - चित्रमहा वासिष्ठः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् । शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णन्तं॑ दे॒वं पृ॑ण॒ते सु॒वीर्य॑म् ॥

    स्वर सहित पद पाठ

    य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् । शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥


    स्वर रहित मन्त्र

    यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् । शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥

    स्वर रहित पद पाठ

    यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । हविष्मन्तः । ईळते । सप्त । वाजिनम् । शृण्वन्तम् । अग्निम् । घृतऽपृष्ठम् । उक्षणम् । पृणन्तम् । देवम् । पृणते । सुऽवीर्यम् ॥ १०.१२२.४

    ऋग्वेद - मण्डल » 10; सूक्त » 122; मन्त्र » 4
    अष्टक » 8; अध्याय » 7; वर्ग » 5; मन्त्र » 4

    Meaning -
    Seven priests with seven pranas and seven faculties of sense and mind offer havi and adore Agni, first and original performer of creation yajna who bears on the banner of creative yajna to its victorious completion, and they go on serving the seven-rayed light of life, listening, fed on and rising by ghrta, generous lord refulgent who blesses the dedicated celebrant with noble strength and happy progeny.

    इस भाष्य को एडिट करें
    Top