ऋग्वेद - मण्डल 10/ सूक्त 15/ मन्त्र 14
ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते । तेभि॑: स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥
स्वर सहित पद पाठये । अ॒ग्नि॒ऽद॒ग्धाः । ये । अन॑ग्निऽदग्धाः । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दय॑न्ते । तेभिः॑ । स्व॒ऽराट् । असु॑ऽनीतिम् । ए॒ताम् । य॒था॒ऽव॒शम् । त॒न्व॑म् । क॒ल्प॒य॒स्व॒ ॥
स्वर रहित मन्त्र
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । तेभि: स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥
स्वर रहित पद पाठये । अग्निऽदग्धाः । ये । अनग्निऽदग्धाः । मध्ये । दिवः । स्वधया । मादयन्ते । तेभिः । स्वऽराट् । असुऽनीतिम् । एताम् । यथाऽवशम् । तन्वम् । कल्पयस्व ॥ १०.१५.१४
ऋग्वेद - मण्डल » 10; सूक्त » 15; मन्त्र » 14
अष्टक » 7; अध्याय » 6; वर्ग » 19; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 19; मन्त्र » 4
Meaning -
Those rays of the sun which carry the heat of fire, in summer, and those which do not carry the heat of fire, in winter, all these which radiate in the spaces between the solar region and the earth and bring joy to people by showers of rain, by all these, O self-refulgent Agni, strengthen to the utmost, energise and refine this body which is the seat of life energy.