ऋग्वेद - मण्डल 10/ सूक्त 152/ मन्त्र 1
ऋषिः - शासो भारद्वाजः
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥
स्वर सहित पद पाठशा॒सः । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽखा॒दः । अद्भु॑तः । न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जीय॑ते । कदा॑ । च॒न ॥
स्वर रहित मन्त्र
शास इत्था महाँ अस्यमित्रखादो अद्भुतः । न यस्य हन्यते सखा न जीयते कदा चन ॥
स्वर रहित पद पाठशासः । इत्था । महान् । असि । अमित्रऽखादः । अद्भुतः । न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥ १०.१५२.१
ऋग्वेद - मण्डल » 10; सूक्त » 152; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 10; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 10; मन्त्र » 1
Meaning -
Indra, you are truly the great ruler and controller of the world, wondrous unique, destroyer of unfriendly and negative forces, supreme power whose friend and devotee is never destroyed, never hurt, never overcome.