साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 168/ मन्त्र 1
वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोष॑: । दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥
स्वर सहित पद पाठवात॑स्य । नु । म॒हि॒मान॑म् । रथ॑स्य । रु॒जन् । ए॒ति॒ । स्त॒नय॑न् । अ॒स्य॒ । घोषः॑ । दि॒वि॒ऽस्पृक् । या॒ति॒ । अ॒रु॒णानि॑ । कृ॒ण्वन् । उ॒तो इति॑ । ए॒ति॒ । पृ॒थि॒व्या । रे॒णुम् । अस्य॑न् ॥
स्वर रहित मन्त्र
वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोष: । दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥
स्वर रहित पद पाठवातस्य । नु । महिमानम् । रथस्य । रुजन् । एति । स्तनयन् । अस्य । घोषः । दिविऽस्पृक् । याति । अरुणानि । कृण्वन् । उतो इति । एति । पृथिव्या । रेणुम् । अस्यन् ॥ १०.१६८.१
ऋग्वेद - मण्डल » 10; सूक्त » 168; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 1
Meaning -
Let us describe the greatness of the impetuous chariot of the wind: the storm goes roaring, thundering, crashing, shattering as it blows, touching the heights of heaven, raising a storm of dust over earth, and turning the skies red in all directions.