Loading...
ऋग्वेद मण्डल - 10 के सूक्त 168 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 168/ मन्त्र 2
    ऋषिः - अनिलो वातायनः देवता - वायु: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषा॑: । ताभि॑: स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥

    स्वर सहित पद पाठ

    सम् । प्र । ई॒र॒ते॒ । अनु॑ । वात॑स्य । वि॒ऽस्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम॑नम् । न । योषाः॑ । ताभिः॑ । स॒ऽयुक् । स॒ऽरथ॑म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥


    स्वर रहित मन्त्र

    सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषा: । ताभि: सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥

    स्वर रहित पद पाठ

    सम् । प्र । ईरते । अनु । वातस्य । विऽस्थाः । आ । एनम् । गच्छन्ति । समनम् । न । योषाः । ताभिः । सऽयुक् । सऽरथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा ॥ १०.१६८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 168; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 26; मन्त्र » 2

    Meaning -
    Plants, creepers and solid structures on earth, like trees, wave and shake in deference to Vayu, wind energy, just as youthful maidens go to their love and flashes of lighting go with the sky. And one with all these, goes the ruling energy of this whole universe, divine wind on the chariot of its currents.

    इस भाष्य को एडिट करें
    Top