ऋग्वेद - मण्डल 10/ सूक्त 22/ मन्त्र 3
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - विराड्बृहती
स्वरः - मध्यमः
म॒हो यस्पति॒: शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः । भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ॥
स्वर सहित पद पाठम॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः । भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥
स्वर रहित मन्त्र
महो यस्पति: शवसो असाम्या महो नृम्णस्य तूतुजिः । भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् ॥
स्वर रहित पद पाठमहः । यः । पतिः । शवसः । असामि । आ । महः । नृम्णस्य । तूतुजिः । भर्ता । वज्रस्य । धृष्णोः । पिता । पुत्रम्ऽइव । प्रियम् ॥ १०.२२.३
ऋग्वेद - मण्डल » 10; सूक्त » 22; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 3
Meaning -
Mighty master, commander and giver of great strength is he, perfect, unequalled and great giver of wealth and power, wielder of the awful thunderbolt and father protector and promoter of humanity as of his own children.