ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 2
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - सोमः
छन्दः - आस्तारपङ्क्ति
स्वरः - पञ्चमः
हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु । अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥
स्वर सहित पद पाठहृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु । अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥
स्वर रहित मन्त्र
हृदिस्पृशस्त आसते विश्वेषु सोम धामसु । अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥
स्वर रहित पद पाठहृदिऽस्पृशः । ते । आसते । विश्वेषु । सोम । धामऽसु । अध । कामाः । इमे । मम । वि । वः । मदे । वि । तिष्ठन्ते । वसुऽयवः । विवक्षसे ॥ १०.२५.२
ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 2
Meaning -
O Soma, all over the world in all places, all these devoted seekers of wealth and all these heart felt desires and ambitions of mine worship you and concentrate and abide in your divine peace and joy. O Soma, you are great and glorious indeed.