ऋग्वेद - मण्डल 10/ सूक्त 26/ मन्त्र 9
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - पूषा
छन्दः - विराडार्ष्यनुष्टुप्
स्वरः - गान्धारः
अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः । भुव॒द्वाजा॑नां वृ॒ध इ॒मं न॑: शृणव॒द्धव॑म् ॥
स्वर सहित पद पाठअ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः । भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥
स्वर रहित मन्त्र
अस्माकमूर्जा रथं पूषा अविष्टु माहिनः । भुवद्वाजानां वृध इमं न: शृणवद्धवम् ॥
स्वर रहित पद पाठअस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः । भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम् ॥ १०.२६.९
ऋग्वेद - मण्डल » 10; सूक्त » 26; मन्त्र » 9
अष्टक » 7; अध्याय » 7; वर्ग » 14; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 14; मन्त्र » 4
Meaning -
May the mighty Pusha power and protect our chariot of life with divine energy, may the lord be promoter and augmenter of our food, energy and onward progress, and may he listen and grant this prayer of ours.