ऋग्वेद - मण्डल 10/ सूक्त 49/ मन्त्र 1
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - भुरिगार्चीजगती
स्वरः - निषादः
अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् । अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥
स्वर सहित पद पाठअ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् । अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥
स्वर रहित मन्त्र
अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् । अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥
स्वर रहित पद पाठअहम् । दाम् । गृणते । पूर्व्यम् । वसु । अहम् । ब्रह्म । कृणवम् । मह्यम् । वर्धनम् । अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे ॥ १०.४९.१
ऋग्वेद - मण्डल » 10; सूक्त » 49; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 7; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 7; मन्त्र » 1
Meaning -
I give to the celebrant of divinity eternal peace and freedom of the soul, the highest value of life across the world of existence. I create the eternal song of existence for self celebration in joyous exaltation. I am the giver of inspiration to the yajnic performer and partner in cosmic evolution, and I subdue the negationist and uncreative soul in the entire struggle of life for evolution.