ऋग्वेद - मण्डल 10/ सूक्त 49/ मन्त्र 3
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - विराड्जगती
स्वरः - निषादः
अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑: । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥
स्वर सहित पद पाठअ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ । अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । यम॑म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥
स्वर रहित मन्त्र
अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभि: । अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥
स्वर रहित पद पाठअहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिऽभिः । अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥ १०.४९.३
ऋग्वेद - मण्डल » 10; सूक्त » 49; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 7; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 7; मन्त्र » 3
Meaning -
I pierce and dispel the darkness for the visionary seer, giving him the break-through and the light with radiations of illuminations and revelation. I protect the sage with these modes of protection and advancement. I, dispeller and destroyer of drought and want, wield the thunderbolt for the negationist and the destroyer whom I do not recognise by the name of a creative positivist.