ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 11
ऋषिः - नाभानेदिष्ठो मानवः
देवता - सावर्णेर्दानस्तुतिः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
स॒ह॒स्र॒दा ग्रा॑म॒णीर्मा रि॑ष॒न्मनु॒: सूर्ये॑णास्य॒ यत॑मानैतु॒ दक्षि॑णा । साव॑र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा॑न्ता॒ अस॑नाम॒ वाज॑म् ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽदाः । ग्रा॒म॒ऽनीः । मा । रि॒ष॒त् । मनुः॑ । सूर्ये॑ण । अ॒स्य॒ । यत॑माना । ए॒तु॒ । दक्षि॑णा । साव॑र्णेः । दे॒वाः । प्र । ति॒र॒न्तु॒ । आयुः॑ । यस्मि॑न् । अस्रा॑न्ताः । अस॑नाम । वाज॑म् ॥
स्वर रहित मन्त्र
सहस्रदा ग्रामणीर्मा रिषन्मनु: सूर्येणास्य यतमानैतु दक्षिणा । सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् ॥
स्वर रहित पद पाठसहस्रऽदाः । ग्रामऽनीः । मा । रिषत् । मनुः । सूर्येण । अस्य । यतमाना । एतु । दक्षिणा । सावर्णेः । देवाः । प्र । तिरन्तु । आयुः । यस्मिन् । अस्रान्ताः । असनाम । वाजम् ॥ १०.६२.११
ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 11
अष्टक » 8; अध्याय » 2; वर्ग » 2; मन्त्र » 6
अष्टक » 8; अध्याय » 2; वर्ग » 2; मन्त्र » 6
Meaning -
The giver of thousands, leader of the community, must not be hurt, nor would he hurt anyone. May this generosity, active and advancing, rise with the sun day by day. May the divinities prolong and elevate the health and age of the man of versatile generosity and competence, and may we, under his guidance and leadership, relentlessly advancing, win the goal and victory of our aspirations.