Loading...
ऋग्वेद मण्डल - 10 के सूक्त 81 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 4
    ऋषिः - विश्वकर्मा भौवनः देवता - विश्वकर्मा छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥

    स्वर सहित पद पाठ

    किम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊँ॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥


    स्वर रहित मन्त्र

    किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥

    स्वर रहित पद पाठ

    किम् । स्वित् । वनम् । कः । ऊँ इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः । मनीषिणः । मनसा । पृच्छत । इत् । ऊँ इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥ १०.८१.४

    ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 4
    अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 4

    Meaning -
    Which is that forest and which is that tree from which the divine forces of nature carve out and shape the heaven and earth? O sages and scholars of divine vision, with your heart and intelligence ask that omniscient lord who abides and presides over the worlds of all existence, holding and controlling them in order.

    इस भाष्य को एडिट करें
    Top