Loading...
ऋग्वेद मण्डल - 2 के सूक्त 32 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 32/ मन्त्र 1
    ऋषिः - गृत्समदः शौनकः देवता - द्यावापृथिव्यौ छन्दः - जगती स्वरः - निषादः

    अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा॑सतः। ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे॥

    स्वर सहित पद पाठ

    अ॒स्य । मे॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । ऋ॒त॒ऽय॒तः । भू॒तम् । अ॒वि॒त्री इति॑ । वच॑सः । सिसा॑सतः । ययोः॑ । आयुः॑ । प्र॒ऽत॒रम् । ते॒ इति॑ । इ॒दम् । पु॒रः । उप॑स्तुते॒ इत्युप॑ऽस्तुते । व॒सु॒ऽयुः । वा॒ । म॒हः । द॒धे॒ ॥


    स्वर रहित मन्त्र

    अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः। ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे॥

    स्वर रहित पद पाठ

    अस्य। मे। द्यावापृथिवी इति। ऋतऽयतः। भूतम्। अवित्री इति। वचसः। सिसासतः। ययोः। आयुः। प्रऽतरम्। ते इति। इदम्। पुरः। उपस्तुते इत्युपऽस्तुते। वसुऽयुः। वाम्। महः। दधे॥

    ऋग्वेद - मण्डल » 2; सूक्त » 32; मन्त्र » 1
    अष्टक » 2; अध्याय » 7; वर्ग » 15; मन्त्र » 1

    Meaning -
    May the heaven and earth be saviours and protectors of this voice of mine, who follow the universal law of Dharma and crave their love in unison. Excellent and elevating is their power and action. Hence in search of food for body, mind and soul, I present this prayer since I hold them adorable as great blissful powers of Divinity.

    इस भाष्य को एडिट करें
    Top