ऋग्वेद - मण्डल 3/ सूक्त 16/ मन्त्र 1
ऋषिः - उत्कीलः कात्यः
देवता - अग्निः
छन्दः - भुरिगनुष्टुप्
स्वरः - गान्धारः
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य। रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नाम्॥
स्वर सहित पद पाठअ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य । रा॒यः । ई॒शे॒ । सु॒ऽअ॒अप॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥
स्वर रहित मन्त्र
अयमग्निः सुवीर्यस्येशे महः सौभगस्य। राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम्॥
स्वर रहित पद पाठअयम्। अग्निः। सुऽवीर्यस्य। ईशे। महः। सौभगस्य। रायः। ईशे। सुऽअपत्यस्य। गोऽमतः। ईशे। वृत्रऽहथानाम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 16; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 1
Meaning -
Agni, the ruler, rules strength and power, heroes and warriors of the world, rules the greatness and grandeur of good fortune, rules the wealth of nations, rules the families blest with children of noble character, rules the master of cows, land, and knowledge and language, and rules and controls those who destroy the darkness of ignorance and hoarders of wealth.