ऋग्वेद - मण्डल 6/ सूक्त 22/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः। यो अस्कृ॑धोयुर॒जरः॒ स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥३॥
स्वर सहित पद पाठतम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒यः । पु॒रु॒ऽवीर॑स्य । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः । यः । अस्कृ॑धोयुः । अ॒जरः॑ । स्वः॑ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥
स्वर रहित मन्त्र
तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः। यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥३॥
स्वर रहित पद पाठतम्। ईमहे। इन्द्रम्। अस्य। रायः। पुरुऽवीरस्य। नृऽवतः। पुरुऽक्षोः। यः। अस्कृधोयुः। अजरः। स्वःऽवान्। तम्। आ। भर। हरिऽवः। मादयध्यै ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 22; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 13; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 13; मन्त्र » 3
Meaning -
We pray to Indra for his gifts of wealth, happy progeny, man power and generous abundance which he, lord of unlimited potential, ageless and blissful, commanding men and transport, would, we hope, bring us for his joy and ours.