ऋग्वेद - मण्डल 7/ सूक्त 38/ मन्त्र 3
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑। स नः॒ स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥३॥
स्वर सहित पद पाठअपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ । सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥
स्वर रहित मन्त्र
अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति। स नः स्तोमान्नमस्य१श्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥३॥
स्वर रहित पद पाठअपि। स्तुतः। सविता। देवः। अस्तु। यम्। आ। चित्। विश्वे। वसवः। गृणन्ति। सः। नः। स्तोमान्। नमस्यः। चनः। धात्। विश्वेभिः। पातु। पायुऽभिः। नि। सूरीन् ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 38; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 5; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 5; मन्त्र » 3
Meaning -
May Savita, lord refulgent and generous, be praised and celebrated, the lord whom all learned saints and sages worship and adore. May he, worthy of homage and obedience, accept our songs of celebration and prayer and protect and promote the learned brave with all modes of protection and advancement.