साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 47/ मन्त्र 3
श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथः॑। ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥३॥
स्वर सहित पद पाठश॒तऽप॑वित्राः । स्व॒धया॑ । मद॑न्तीः । दे॒वीः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ । ताः । इन्द्र॑स्य । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । सिन्धु॑ऽभ्यः । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥
स्वर रहित मन्त्र
शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः। ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥३॥
स्वर रहित पद पाठशतऽपवित्राः। स्वधया। मदन्तीः। देवीः। देवानाम्। अपि। यन्ति। पाथः। ताः। इन्द्रस्य। न। मिनन्ति। व्रतानि। सिन्धुऽभ्यः। हव्यम्। घृतऽवत्। जुहोत ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 47; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 14; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 14; मन्त्र » 3
Meaning -
The holy and ecstatic waters, hundred ways pure and flowing with their innate inspiring vitality, move on and converge to the divinities, centre yajna of the cosmos. They do not violate the divine laws of Indra, lord of existence. O men and women, offer oblations with ghrta for augmenting the rivers and the seas.