Loading...
ऋग्वेद मण्डल - 7 के सूक्त 87 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 87/ मन्त्र 6
    ऋषिः - वसिष्ठः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् । ग॒म्भी॒रशं॑सो॒ रज॑सो वि॒मान॑: सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा॑ ॥

    स्वर सहित पद पाठ

    अव॑ । सिन्धु॑म् । वरु॑णः । द्यौःऽइ॑व । स्था॒त् । द्र॒प्सः । न । श्वे॒तः । मृ॒गः । तुवि॑ष्मान् । ग॒म्भी॒रऽसं॑सः । रज॑सः । वि॒ऽमानः॑ । सु॒पा॒रऽक्ष॑त्रः । स॒तः । अ॒स्य । राजा॑ ॥


    स्वर रहित मन्त्र

    अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् । गम्भीरशंसो रजसो विमान: सुपारक्षत्रः सतो अस्य राजा ॥

    स्वर रहित पद पाठ

    अव । सिन्धुम् । वरुणः । द्यौःऽइव । स्थात् । द्रप्सः । न । श्वेतः । मृगः । तुविष्मान् । गम्भीरऽसंसः । रजसः । विऽमानः । सुपारऽक्षत्रः । सतः । अस्य । राजा ॥ ७.८७.६

    ऋग्वेद - मण्डल » 7; सूक्त » 87; मन्त्र » 6
    अष्टक » 5; अध्याय » 6; वर्ग » 9; मन्त्र » 6

    Meaning -
    Vanina places the sea below as the heaven above, the lord immaculate who, as a drop of crystal, is mighty powerful as the lion, supreme adorable, creator of space and stars, sovereign of the mighty universal order, sole ruler and law giver of this world of reality.

    इस भाष्य को एडिट करें
    Top