Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 1/ मन्त्र 34
    ऋषिः - शश्वत्याङ्गिरस्यासङ्गस्य पत्नी देवता - आसंङ्गः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः । शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥

    स्वर सहित पद पाठ

    अनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः । शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥


    स्वर रहित मन्त्र

    अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः । शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥

    स्वर रहित पद पाठ

    अनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः । शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥ ८.१.३४

    ऋग्वेद - मण्डल » 8; सूक्त » 1; मन्त्र » 34
    अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 4

    Meaning -
    The gross form of the universe is seen emerging from the infinite transphysical spiritual reality. The eternal Mother Nature watches and says: O lord of gracious charity, you alone hold the blessed food for the life of mortal humanity.

    इस भाष्य को एडिट करें
    Top