ऋग्वेद - मण्डल 8/ सूक्त 54/ मन्त्र 1
ऋषिः - मातरिश्वा काण्वः
देवता - इन्द्र:
छन्दः - निचृत्बृहती
स्वरः - मध्यमः
ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: । ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑: ॥
स्वर सहित पद पाठए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ । ते । स्तोभ॑न्तः । ऊर्ज॑म् । आ॒व॒न् । घृ॒त॒ऽश्चुत॑म् । पौ॒रासः॑ । न॒क्ष॒न् । धी॒तिऽभिः॑ ॥
स्वर रहित मन्त्र
एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारव: । ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभि: ॥
स्वर रहित पद पाठएतत् । ते । इन्द्र । वीर्यम् । गीःऽभिः । गृणन्ति । कारवः । ते । स्तोभन्तः । ऊर्जम् । आवन् । घृतऽश्चुतम् । पौरासः । नक्षन् । धीतिऽभिः ॥ ८.५४.१
ऋग्वेद - मण्डल » 8; सूक्त » 54; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 24; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 24; मन्त्र » 1
Meaning -
Indra, gracious lord of omnipotence, poets and artists with their holy voices, celebrate and exalt this virility, valour and heroism of yours. Singing and celebrating, they obtain energy and self-assurance, and the people, with their thoughts, actions and meditation realise joy, ananda, of the highest gracious order.